✍️ ई-पत्रिका

[ई-पत्रिका][bleft]

📌Research Article

[साहित्‍य][bleft]

पञ्चसिद्धान्तिकायाः भारतीयज्ञानपरम्परायां प्रतिबिम्बनम् - डाॅ. रेञ्जित्पी. जी.

शोधसारांशः

भारतीयखगोलविज्ञानस्य इतिहासे वराहमिहिरविरचितं पञ्चसिद्धान्तिका नाम ग्रन्थः अत्यन्तं महत्त्वपूर्णं स्थानं धारयति। षष्ठशताब्द्यां विरचितोयंऽग्रन्थः पञ्चप्रमुखखगोलसिद्धान्तानां समन्वितं विवेचनं करोति। अस्मिन् ग्रन्थे भारतीयपरम्परायाः सह यूनानी, पारसीक, बाबिलोनीय इत्यादीनां बाह्यवैज्ञानिकपरम्पराणां प्रभावोऽपि दृश्यते। वराहमिहिरः पूर्वाचार्याणां सिद्धान्तानां तुलनात्मकम् अध्ययनं कृत्वा भारतीयवैज्ञानिकपरम्परायाः विकासाय महान् योगदानम् अकरोत्। अस्य ग्रन्थस्य मुख्यलक्षणानि अनुभवाधारितपर्यवेक्षणम्, गणितीयसूक्ष्मता, ग्रहगत्यादीनां यथार्थगणना, ग्रहणनिर्णयः च सन्ति। पञ्चसिद्धान्तिका भारतीयज्ञानपरम्परायाः समन्वयात्मकस्वरूपं प्रकाशयति, यत्र विविधसंस्कृतिजन्यज्ञानानां समागमः दृश्यते। अयं ग्रन्थः भारतीयपञ्चाङ्गनिर्माणे, ज्योतिषशास्त्रे तथा परवर्तीखगोलशास्त्रविकासे आधारभूतं स्थानं धारयति।

बीजशब्दाः भारतीयज्ञानपरम्परा, पञ्चसिद्धान्तिका, खगोलशास्त्रम्, सिद्धान्ताः, वेदाङ्गज्योतिषम्, अहर्गणः, अर्धरात्रिका।

 Reflection of Pancha-Siddhantika in Indian Knowledge System
-Dr. Renjith P. G.
Associate Professor, Dept. of Sanskrit
SNM College, Maliankara
Abstract
Varahamihira's Pancha-Siddhantika (Five Astronomical Systems) is one of the most significant texts in the history of Indian astronomy, marking a key development in the Indian Knowledge System. Composed in the 6th century CE, this treatise presents a comprehensive analysis of five major astronomical systems, blending indigenous Indian traditions with external influences from Greek, Persian, and Babylonian astronomical knowledge. By critically comparing these systems, Varahamihira not only preserved and refined the astronomical wisdom of earlier cultures but also contributed to the consolidation of a distinct Indian scientific tradition. The Pancha-Siddhantika emphasizes empirical observation, mathematical precision, and the importance of astronomical calculations in predicting celestial phenomena, such as planetary positions and eclipses. Its integration of diverse astronomical models reflects the pluralistic nature of the Indian Knowledge System, where knowledge is synthesized and advanced through cross-cultural exchange. The text's influence on later astronomical thought in India and its role in shaping the development of Indian calendars, astrology, and related sciences make it a foundational work in the intellectual history of India.
Keywords: Indian Knowledge System, Pancha-Siddhantika, Astronomy, Siddhantas, Vedangajyotisha, Ahargana, Ardharatrika.

शोधआलेख

भारतीयज्ञानपरम्परा विश्वस्य प्राचीनतमासु ज्ञानपरम्परासु अन्यतमा अस्ति। अस्यां गणितम्, खगोलशास्त्रम्, आयुर्वेदः, दर्शनशास्त्रम्, भाषाविज्ञानम्, वास्तुशास्त्रम्, कलाशास्त्रं च अन्तर्भवन्ति। वेदोपनिषदादिग्रन्थेषु प्रतिष्ठितः अयं ज्ञानसमुदायः विज्ञानस्य आध्यात्मिकतायाश्च समन्वितं रूपं दर्शयति। 

अस्यां परम्परायां वराहमिहिरः बहुविषयविशारदः आसीत्। सः षष्ठशताब्द्यां जातः ख्यातः खगोलज्ञः, गणितज्ञः, ज्योतिषाचार्यः च आसीत्। तेन भारतीयपरम्परागतज्ञानस्य सह यूनानी-पारसीक-रोमकपरम्पराणाम् अपि समन्वयः कृतः।

वराहमिहिरस्य प्रमुखग्रन्थेषु बृहत्जातकम्, लघुजातकम्, बृहत्संहिता, यात्रा, तथा पञ्चसिद्धान्तिका इत्यादयः प्रसिद्धाः। पञ्चसिद्धान्तिका नाम ग्रन्थे पितामहसिद्धान्तः, वसिष्ठसिद्धान्तः, रोमकसिद्धान्तः, पौलिशसिद्धान्तः, सूर्यसिद्धान्तः च इति पञ्चसिद्धान्ताः विवेचिताः सन्ति।

अनुसन्धानपद्धतिः

अस्य शोधकार्यस्य मूलाधारः पाठविश्लेषणपद्धतिः अस्ति। वराहमिहिरविरचितस्य पञ्चसिद्धान्तिकाग्रन्थस्य आलोचनात्मकपठनं कृत्वा तत्रोक्तानां सिद्धान्तानां तुलनात्मकम् अध्ययनं कृतम्।

    वेदाङ्गज्योतिषम्, सूर्यसिद्धान्त: आर्यभटीयम् इत्यादीनां प्राचीनखगोलग्रन्थानां सन्दर्भाः अपि उपयोगीकृताः। अनुसन्धाने ऐतिहासिकविवेचनम्, वैज्ञानिकविश्लेषणम्, तुलनात्मकदृष्टिः च स्वीकृता।
चर्चा

सिद्धान्तशब्दस्य स्वरूपम् 

‘‘सिद्धान्त’’ इति शब्दस्य अर्थः ‘‘अन्तिमनिष्कर्षः’’ अथवा ‘‘स्थिरसिद्धिः’’ इति भवति। प्राचीनभारते अष्टादशखगोलसिद्धान्ताः प्रसिद्धाः आसन्। तेषां नामानि निम्नलिखितानि-

सूर्यः पितामहो व्यासो वसिष्ठोऽत्रिपराशरः।
कश्यपो नारदो गर्गो मरीचिर्मनुरङ्गिराः॥
लोमशः पौलिशश्चैव च्यवनो यवनो भृगुः।
शौनकोऽष्टादशैवैते ज्योतिःशास्त्रप्रवर्तकाः॥

एतेषु बहवः ग्रन्थाः अद्य लुप्ताः सन्ति। वराहमिहिरः तेषां पञ्चप्रमुखसिद्धान्तानां सारं पञ्चसिद्धान्तिका इति ग्रन्थे संरक्षितवान्।
 
पितामहसिद्धान्तः

अयं सिद्धान्तः वेदाङ्गज्योतिषस्य परम्परां अनुसरति। अत्र पञ्चवर्षात्मकयुगस्य वर्णनं दृश्यते। सूर्यस्य पञ्चपरिभ्रमणानि, चन्द्रस्य 67 परिभ्रमणानि, 1830 सावनदिनानि इत्यादयः तत्र निरूपिताः।
  
वसिष्ठसिद्धान्तः

अयं पितामहसिद्धान्तात् अधिकविकसितः। अत्र राशिचक्रस्य, लग्नस्य, ग्रहाणां वक्रमार्गस्य, दिनमाननिर्णयस्य च विवेचनं दृश्यते। ग्रहगत्याः यथार्थज्ञानं तत्र उपलब्धम्।
 
पौलिशसिद्धान्तः

वराहमिहिरेण अयं ‘‘स्फुटः’’ इति कथितः। अस्मिन् अहर्गणना, ग्रहदीर्घतागणना, ग्रहणनिर्णयः, ज्या-सारणी ;ैपदम जंइसमद्ध इत्यादीनां विवेचनं दृश्यते। केन्द्र ;।दवउंसलद्ध तथा मन्दफलस्य ज्ञानम् अपि अस्मिन् विद्यमानम्।
 
रोमकसिद्धान्तः

अस्य नाम्ना एव तस्य रोमकीयप्रभावः ज्ञायते। अत्र उन्नविंशतिवर्षात्मकः मेटोनचक्रस्य प्रभावः दृश्यते। ग्रहगणनायां यूनानीखगोलशास्त्रस्य प्रभावः स्पष्टः अस्ति।
 
सूर्यसिद्धान्तः

सूर्यसिद्धान्तः पञ्चसिद्धान्तेषु श्रेष्ठतमः मन्यते। अत्र ग्रहगणनानां सूक्ष्मतमपद्धतयः, महायुगविवरणम्, ग्रहपरिभ्रमणसंख्या, भूगोलविवेचनम् इत्यादयः निरूपिताः।
वराहमिहिरः सूर्यसिद्धान्तस्य विषये लिखति-

पौलिशकृतः स्फुटोऽसौ
तस्यासन्नस्तु रोमकप्रोक्तः।
स्पष्टतरः साविचः
परिशेषोदूतबिभ्रष्टः॥

अनेन ज्ञायते यत् सः सर्वेषां सिद्धान्तानां गुणदोषान् परीक्ष्य तेषां उपयोगितां स्वीकरोति।
 
उपसंहारः

पञ्चसिद्धान्तिका भारतीयज्ञानपरम्परायाः वैज्ञानिकवैभवं प्रकाशयति। अस्मिन् ग्रन्थे भारतीयखगोलशास्त्रस्य बहुसांस्कृतिकसमन्वयः, गणितीयनिपुणता, वैज्ञानिकदृष्टिः च सुस्पष्टतया दृश्यन्ते। वराहमिहिरः केवलं पूर्वसिद्धान्तानां सङ्कलनकत्र्ता न आसीत्, अपितु वैज्ञानिकविवेकयुक्तः संशोधकः आसीत्। तेन भारतीयखगोलशास्त्रं व्यवस्थितरूपेण प्रस्तूय परवर्तीवैज्ञानिकपरम्परायाः आधारः निर्मितः। अतः पञ्चसिद्धान्तिका भारतीयवैज्ञानिकइतिहासस्य अमूल्यनिधिः इति निश्चितम्।
 
संदर्भसूची

1. वराहमिहिरः। पञ्चसिद्धान्तिका। सम्पादकाः - जि. थिबाउट्, सुदाकारद्विवेदी। वाराणसी : चैखम्बसंस्कृतसीरिज्कार्यालयः।
2. पिङ्ग्री, डेविड्। ज्योतिषशास्त्रम्ः खगोल-गणित-साहित्यम्। वीस्बाडेन: ओट्टोहरास्सोविट्ज्, 1981।
3. शर्मा, के. वी. भारतीयखगोलशास्त्रः स्रोतग्रन्थः। नवदिल्लीः आई. जी. एन. सी. ए., 2008।
4. शास्त्री, टी. एस्. कुप्पन्न। वराहमिहिरः तथा तस्य कृतयः। मद्रासविश्वविद्यालयप्रकाशनम्, 1957।
5. वेदाङ्गज्योतिषः। सम्पादकः- शङ्करबलकृष्णदीक्षित। पुणेः भण्डारकरओरिएण्टलरिसर्चइन्स्टिट्यूट्।
6. आर्यभटः। आर्यभटीयम्। सम्पादकाः - के. एस्. शुक्ल, के. वी. शर्मा। नवदिल्लीः भारतीयराष्ट्रियविज्ञानअकादमी, 1976।
7. ब्रह्मगुप्तः। ब्राह्मस्पुटसिद्धान्तः। सम्पादकः - सुदाकारद्विवेदी। वाराणसी।

-डाॅ. रेञ्जित्पी. जी.
सहायकाचार्यः, संस्कृतविभागः,
एस्. एन्. एम्. महाविद्यालयः, मालियङ्कारम्
 Email: renjithpgskt@gmail.com
Post A Comment
  • Blogger Comment using Blogger
  • Facebook Comment using Facebook
  • Disqus Comment using Disqus

No comments :

Note: Only a member of this blog may post a comment.